श्रीरामाष्टकम् - Shree Ramastakam



Shree Sita Ram Swayamvar at Janakpur Nepal in the presense of Guru, Laxman, Raja Janak of Janakpur
Sita Ram Swayamvar

कृतार्तदेववन्दनं दिनेशवंशनन्दनम् ।
सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥१॥

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् ।
महाधनुर्विदारकं नमामि राममीश्वरम् ॥२॥

स्वतातवाक्यकारिणं तपोवने विहारिणम् ।
करे सुचापधारिणं नमामि राममीश्वरम् ॥३॥

कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् ।
प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥४॥

प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम् ।
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम् ॥५॥

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम् ।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥६॥

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् ।
कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥७॥

ह्रताखिलाचलाभरं स्वधामनीतनागरम् ।
जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥८॥

इदं समाहितात्मना नरो रघूत्तमाष्टकम् ।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥९॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामष्टकं सम्पूर्णम् ।

Narayan, Sita Ram
श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकम्


Share: